वांछित मन्त्र चुनें
आर्चिक को चुनें

शु꣣क्रं ते꣢ अ꣣न्य꣡द्य꣢ज꣣तं꣡ ते꣢ अ꣣न्य꣡द्वि꣢꣯षुरूपे꣣ अ꣡ह꣢नी꣣ द्यौ꣡रि꣢वासि । वि꣢श्वा꣣ हि꣢ मा꣣या꣡ अव꣢꣯सि स्वधावन्भ꣣द्रा꣡ ते꣢ पूषन्नि꣣ह꣢ रा꣣ति꣡र꣢स्तु ॥७५॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

शुक्रं ते अन्यद्यजतं ते अन्यद्विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावन्भद्रा ते पूषन्निह रातिरस्तु ॥७५॥

मन्त्र उच्चारण
पद पाठ

शु꣣क्र꣢म् । ते꣣ । अन्य꣢त् । अ꣣न् । य꣢त् । य꣣जतम् । ते꣣ । अन्य꣢त् । अ꣣न् । य꣢त् । वि꣡षु꣢꣯रूपे । वि꣡षु꣢꣯ । रू꣣पेइ꣡ति꣢ । अ꣡ह꣢꣯नी । अ । ह꣣नीइ꣡ति꣢ । द्यौः । इ꣣व । असि । वि꣡श्वाः꣢꣯ । हि । मा꣣याः꣢ । अ꣡व꣢꣯सि । स्व꣣धावन् । स्व । धावन् । भद्रा꣢ । ते꣣ । पूषन् । इह꣢ । रा꣣तिः । अ꣣स्तु ॥७५॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 75 | (कौथोम) 1 » 2 » 3 » 3 | (रानायाणीय) 1 » 8 » 3


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र का पूषा देवता है। पूषा नाम से परमात्मा की महिमा का वर्णन करते हुए उससे प्रार्थना की गयी है।

पदार्थान्वयभाषाः -

हे (पूषन्) सब दृष्टियों से परिपुष्ट तथा पुष्टि देनेवाले परमात्मन् ! (ते) आपका, आप द्वारा रचा हुआ (अन्यत्) एक अर्थात् दिन (शुक्रम्) सफेद है, (ते) आपकी रची हुई (अन्यत्) दूसरी अर्थात् रात्रि (यजतम्) यज्ञ-धूम के समान कृष्णवर्ण भी है। इस प्रकार आपके रचे हुए (अहनी) दिन-रात (विषुरूपे) विषम रूपवाले हैं। किन्तु स्वयं आप (द्यौः इव) सूर्य के समान प्रकाशमान (असि) हैं। हे (स्वधावन्) सब भोग्य पदार्थों के स्वामिन् ! आप (विश्वाः हि) सभी (मायाः) बुद्धिकौशलपूर्ण जगत्प्रपंचों की (अवसि) रक्षा करते हो। (ते) आपका (भद्रा) कल्याणकारी (रातिः) दान (इह) हमारे जीवन में (अस्तु) हमें प्राप्त हो ॥३॥ इस मन्त्र में स्वयं सूर्य के समान भास्वर भी परमेश्वर सफेद और काली दोनों रूपोंवाली सृष्टि करता है, इस प्रकार कारण और कार्य के गुणों में आंशिक विरोध वर्णित होने से विषम अलङ्कार है ॥३॥

भावार्थभाषाः -

जिस परमात्मा ने दिन-रात आदि विलक्षण वस्तुएँ बनायी हैं और जो सारे जगत्प्रपंच का रक्षक है, उसके उपकार हमें सदा स्मरण करने चाहिएँ ॥३॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पूषा देवता। तन्नाम्ना परमात्मनो महिमानं वर्णयन् तं प्रार्थयते।

पदार्थान्वयभाषाः -

हे (पूषन्२) सर्वात्मना परिपुष्ट पुष्टिप्रद परमात्मन् ! (ते) तव, त्वद्रचितम्, (अन्यत्) एकं, दिनम् इत्यर्थः (शुक्रम्) उज्ज्वलम् अस्ति, (ते) तव, त्वद्रचितम् (अन्यत्) एकं, रात्रिः इत्यर्थः (यजतम्३) यज्ञसम्बन्धिधूमवत् कृष्णं वर्तते। एवम् त्वद्रचिते इमे (अहनी) अहोरात्रौ (विषुरूपे) विषमरूपे स्तः। त्वं स्वयं तु (द्यौः इव) सूर्य इव प्रकाशमानः (असि) वर्तसे। हे (स्वधावन्) सर्वेषां भोग्यपदार्थानां स्वामिन् ! स्वधा इति अन्ननाम। निघं० २।७। त्वम् (विश्वाः हि) सर्वाः एव (मायाः) बुद्धिकौशलपूर्णान् जगत्प्रपञ्चान् (अवसि) रक्षसि। (ते) तव (भद्रा) कल्याणदायिनी (रातिः) दत्तिः। रा दाने, मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः।’ अ० ३।३।९६ इति क्तिन् स च उदात्तः। (इह) अस्माकं जीवने (अस्तु) अस्मान् प्राप्नोतु ॥३॥ अत्र स्वयं सूर्यवद् भास्वरोऽपि परमेश्वरः शुक्लकृष्णोभयरूपां सृष्टिं करोतीति कारणकार्ययोरांशिकगुणविरोधवर्णनाद् विषमालङ्कारः४ ॥३॥ यास्काचार्य इमं मन्त्रमेवं व्याचष्टे—अथ यद् रश्मिपोषं पुष्यति तत् पूषा भवति। शुक्रं ते अन्यल्लोहितं ते अन्यद्, यजतं ते अन्यद् यज्ञियं ते अन्यद्। विषमरूपे ते अहनी कर्म। द्यौरिव चासि। सर्वाणि प्रज्ञानान्यवसि, अन्नवन्। भाजनवती ते पूषन्निह दत्तिरस्तु, निरु० १२।१७।१० इति ॥

भावार्थभाषाः -

येन परमात्मनाऽहोरात्रादिकं विलक्षणं वस्तुजातं रचितं, यश्च सर्वस्य जगत्प्रपञ्चस्य रक्षिताऽस्ति तदुपकारा अस्माभिः सदा स्मर्तव्याः ॥३॥५

टिप्पणी: १. ऋ० ६।५८।१ २. पुष्णातेः पुष्यतेः वा पूषा—इति भ०। पूषा यः स्वाभिव्याप्त्या सर्वान् प्रदार्थान् पोषयति स परमेश्वरः—इति ऋ० १।२३।१४ भाष्ये द०। ३. यजिरत्र सङ्गतिकरणे वर्तते, यजनीयं प्रकाशेन सङ्गमनीयं स्वतः कृष्णवर्णम् अन्यत् एकम् अहर्भवति रात्र्याख्यम्—इति सा०। ४. गुणौ क्रिये वा चेत् स्यातां विरुद्धे हेतुकार्ययोः (सा० द० १०।६९) इति तल्लक्षणात्। . ऋग्भाष्ये दयान्दर्षिर्मन्त्रमिमं पोषणकर्तुर्मनुष्यस्य विषये व्याख्यातवान्।